Show Para
Question Numbers: 129-135
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः समीचीनमुत्तरं चिनुत
आस्ते भागीरथीतीरे गृध्रकूटनाम्नि पर्वते महान्पर्कटीवृक्षः । तस्य कोटरे दैवदुर्विपाकाद्गलितनखनयनो जरद्गवनामा गृध्रः प्रतिवसति । अथ कृपया तज्जीवनाय तद्वृक्षवासिनः पक्षिणः स्वाहारात्किंचित्किंचिदुद्धृत्य ददति । तेनासौ जीवति । अथ कदाचिद्दीर्घकर्णनामा मार्जारः पक्षिशावकान्भक्षितुं तत्रागतः । ततस्तमायान्तं दृष्ट्वा पक्षिशावकैर्भयार्तेः कोलाहलः कृतः । तच्छ्रुत्वा जरद्गवेनोक्तम्'कोऽयमायाति ?' । दीर्घकर्णो गृध्रमवलोक्य सभयमाह 'हा, हतोऽस्मि ।
तस्यामवस्थायां तेन विचारितम् यत् - भयात् तावदेव भेतव्यं यावद् भयमनागतमस्ति, यदि भयप्रदा काचित्समस्या पुरतः समागता तदा विचार्य यथोचितं कार्यं करणीयम् ।
अधुनास्य संनिधाने पलायितुमक्षमः । तद्यथा भवितव्यं तद्भवतु । तावद्विश्वासमुत्पाद्यास्य समीपं गच्छामि । इत्यालोच्योपसृत्याब्रवीत्-‘आर्य! त्वामभिवन्दे ।' गृध्रोऽवदत्- ' कस्त्वम् ? ' । सोऽवदत्- 'मार्जारोऽहम् ' । गृध्रो ब्रूते - 'दूरमपसर । नो चेद्धन्तव्यो ऽसि मया' । मार्जारोऽवदत्- 'श्रूयतां तावदस्मद्वचनम् । ततो यद्यहं वध्यस्तदा हन्तव्यः । किं कश्चित् जातिमात्रेण हन्यते यद्वा पूज्यते ? व्यवहारं परिज्ञाय कश्चित् वध्यो यद्वा पूज्यो भवेत् ।'
गृध्रो ब्रूते - 'ब्रूहि, किमर्थमागतोऽसि ?' सोऽवदत्- 'अहमत्र गङ्गातीरे नित्यस्त्रायी निरामिषाशी ब्रह्मचारी चान्द्रायणव्रतमाचरंस्तिष्ठामि। 'यूयं धर्मज्ञानरता विश्वासभूमयः' इति पक्षिणः सर्वे सर्वदा ममाग्रे प्रस्तुवन्ति । अतो भवद्भयो विद्यावयोवृद्धेभ्यो धर्मं श्रोतुमिहागतः । भवन्तश्चैतादृशा धर्मज्ञा यन्मामतिथिं हन्तुमुद्यताः । गृहस्थस्तु एष धर्मः यदि तस्य पार्श्वे कश्चित् वैरी अपि- अतिथिरूपेण समागत तर्हि तस्य अपि सत्कारं करणीयम् । यथा वृक्षाणां कर्तयिता यदि वृक्षछायायां गच्छति तदा वृक्षाः स्वकीयां छायां नोपसंहन्ते ।
एवं प्रकारेण विश्वास्य समार्जारस्तरुकोटरे संस्थितः ।
ततो दिनेषु गच्छत्सु पक्षिशावकानाक्रम्य कोटरमानीय प्रत्यहं खादति । येषामपत्यानि खादितानि तैः शोकार्तैर्विलद्भिरितस्ततो जिज्ञासा समारब्धा । तत्परिज्ञाय मार्जारः कोटरान्निःसृत्य बहिः पलायितः । पश्चात्पक्षिभिरितस्ततो निरूपयद्भिस्तत्र तरुकोटरे शावकास्थीनि प्राप्तानि। अनन्तरं त ऊचुः - " अनेनैव जरद्गवेनास्माकं शावकाः खादिताः " इति सर्वैः पक्षिभिर्निश्चित्य व्यापादितः।

© examsnet.com
Question : 129
Total: 150
Go to Question: