CTET 2 Social Science 19 Jan 2023 Paper

Show Para  Hide Para 
Question Numbers: 129-135
निम्नलिखितं गद्यांशं पठित्वा प्रश्नानां यथोचितं उत्तराणि देयानि ।
एकस्मिन्नगरे कश्चिद् धनिकः प्रतिवसति स्मः। स भाण्डानां व्यापारी आसीत्। प्रसिद्धेभ्यः नगरेभ्यः भाण्डानि क्रीत्वा लघुनगरेषु ग्रामेषु च भाण्डानि विक्रीणाति स्म। तस्याधिकारे भूमसी भूमिरप्यासीत्। स कर्मकरैः कृषिं कारयित्वा अन्नादिकं च विक्रीय प्रभूतं धनम् अर्जितवान्। तस्य चत्वारः पुत्राः आसन् । तेऽपि स्वतन्त्ररूपेण व्यापारं कृत्वा धनम् अर्जितवन्तः। ते सर्वे पितृभक्ता आसन्। ते सर्वे स्वार्जितं धनं पित्रे समर्पयन्। एवं स नगरश्रेष्ठी, धनिकः बृहत्कोषस्य स्वाम्यभवत्।
एकदा संयोगाद् एकः साधुः तत्र नगरे समागतवान् । स प्रत्येकं गृहं गत्वा भिक्षां याचते स्म । श्रान्तो भूत्वा स एकस्य वटस्य मूले चत्वरे स्थित्वा शयनं कर्त्तुमैच्छत् । तदैव जिज्ञासावशात् नगरस्य केचन जनाः स्वभाग्यं ज्ञातुं समागच्छन्। स कानपि जनान् निराशान् न करोति स्म ।
औत्सुक्यवशाद् स धनिकोऽपि साधोः सकाशं आगतवान्। सोऽपि स्वभाग्यं ज्ञातुम् ऐच्छत् । साधुः तस्य हस्तरेखा: सम्यग् निरूप्य अवदत् - भो श्रेष्ठिन्। तव भाग्यं तु सर्वाधिकं प्रबलम् अस्ति। त्वं सर्वप्रकारेण सपरिवारः सुख्यस्ति। अहं तव हस्ते सप्तपीढीनां भविष्यदर्शनं कर्तुं शक्नोमि । आगामी सप्तपीढीपर्यन्तं तव धनागारो रिक्तो न भविष्यति । धनं उत्तरोत्तरं वर्धिष्यते । अतः सपरिवारः प्रसन्नो भूत्वा सुखपूर्वकं भगवतः कृपायाः आनन्दरसं यथेच्छं पिब ।
साधोर्वचनं श्रुत्वा श्रेष्ठी तारस्वरेण अरोदत् । तं रुदन्तं दृष्ट्वा सर्वे जनाः चकिता अभवन्। तदा साधुरपृच्छत् भो श्रेष्ठिन् एवं अनन्तविभवस्य स्वाम्यपि भूत्वा किमर्थं रोदिषि ? साधुरकथयत् भोः साधो ! अहं वर्तमानं चिन्तयित्वा न रोदिमि । परन्तु सप्तपीढ्याः अनन्तरं मम किं भविष्यति इति चिन्तयित्वा रोदिमि !
साधुः कठोरस्वरेणावदत् - रे मूर्ख ! एतावताऽपि विभवेन एवं सन्तुष्टो नास्ति तदा सदैव दरिद्रो भविष्यति । नास्ति लोभस्यान्तः ।
© examsnet.com
Question : 133
Total: 150
Go to Question: