Test Index
CTET 2 Math and Science 24 Jan 2023 Paper
Show Para
Question Numbers: 121-128
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिंत्वा लिखत ।
धेनुः भारतीयसंस्कृतेः प्रतीकम्। भारतीयानां कृते धेनुः न केवलं पशुः अपि तु जीवनपोषिणी शक्तिः अस्ति। सा अस्माकं कृषिं पोषयति, आर्थिकस्थितिं च वर्धयति। आयुर्वेदस्य वचनानुसारं धेनोः दुग्धम् आरोग्याय हितकरं, पौष्टिकाहारः च। गोदुग्धपानेन रोगनिरोधशक्तिः, बलम्, तेजः च लभ्यन्ते। दुग्धात् उत्पन्नं तक्रं घृतं च स्वास्थ्यवर्धकम् इति वैद्याः कथयन्ति। आधि-व्याधि-निवारणाय दुग्ध-दधि-तक्र-नवनीत- घृतानाम् उपयोगः आयुर्वेदे निरूपितः। धेनवः न केवलं दुग्धदानेन उपकुर्वन्ति अपि तु कृषिकार्ये भारवहनार्थं साधनरूपेण अपि सहायकाः भवन्ति। श्रीकृष्णः कश्चन गोपबालः आसीत्। तस्य वेणुवादनेन आकृष्टाः धेनवः तं परितः तिष्ठन्ति स्म। सः गोवत्सैः सह क्रीडति स्म।
गोमयम् इन्धनरूपेण उपयुज्यते । तेन इदानीं विद्युत् अपि उत्पद्यमाना अस्ति। अनेकै: खनिजैः युक्तं गोमयम् अत्युत्तमम् उर्वरकम् अस्ति। गोमूत्रं गोमयं च भूमेः उर्वरतां वर्धयतः। रासायनिकोर्वरकं तु भूमेः गुणवत्तां नाशयति, अस्माकं स्वास्थ्यस्य अपि हानिं करोति इति सर्वे अङ्गीकुर्वन्ति। अतः गोसम्पद् न केवलं ग्रामस्य, अपि तु सम्पूर्णदेशस्य स्वास्थ्यस्य आर्थिकतायाः च आधारभूता अस्ति।

Go to Question: