Test Index
CTET Class I to V 9 Jan 2023 Paper
Show Para
Question Numbers: 129-135
निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।
एकदा विजयसिंहः नाम कश्चित् राजा मृगयार्थं वनम् अगच्छत्। तत्र सः कस्यचित् ऋषेः आश्रमं प्राप्तवान्। तत्र सः ऋषेः अङ्के उपविष्टं कञ्चन शुकम् अपश्यत्। ऋषिः शिष्यान् वेदमंत्रान् अपाठयत्। शुकः अपि छात्रैः सह वेदमन्त्रान् अगायत्। यदा आचार्यः शिष्यान् प्रश्नान् अपृच्छत् तदा शुकः अपि तैः सह उत्तराणि अवदत् । शुकस्य तद् पाण्डित्यं दृष्ट्वा राज्ञः मनः तस्मै शुकाय अलोभत। सः ऋषिं तं शुकम् अयाचत्। ऋषिः अवदत् - “राजन्, यथा इच्छसि तथा कुरु।"
राजा ऋषेः अनुज्ञया तं शुकं वनात् राजप्रासादम् आनयत्। अहो आश्चर्य ! तत्र आगत्य सः शुकः कदापि वेदमन्त्रान् न अगायत्। तत्र स्थितानां राजपुत्राणां सम्भाषणं, सेवकानां परस्पर कलहान् अपशब्दान् च सः प्रतिदिनम् अशृणोत्। सः अपि तथैव भाषितुम् आरभत। शुकस्य मुखात् वेदमन्त्राणां स्थाने अपशब्दान् श्रुत्वा राजा चकितः अभवत्। अन्येद्युः सः शुकं गृहीत्वा ऋषेः आश्रमम् आगत्य, अवदत् क्रोधेन - “आचार्य, भवतः एष शुकः वञ्चकः। एष अत्र आश्रमे वेदमन्त्रान् वदति, मम प्रासादे तु अपशब्दान् कलहपूर्णां वाणीं च वदति। न अहम् इच्छामि अस्य सह्वासम्। स्वीकरोतु भवान् एव एनं खगम्।" इत्युक्त्वा सः तं शुकम् ऋषये अयच्छत्। ऋषिः शान्तेन मनसा महता प्रेम्णा तं शुकं अङ्के उपावेशयत्, अवदत् च - "राजन् अनुकरणशीलः अयं पक्षी। यद् श्रृणोति तदेव अनुवदति। प्रकृतिः इयं तस्य। तस्मै किं श्रावणीयं किं वा न श्रावणीयम् इति अस्माभिः एव सम्यक् चिन्तनीयम्। भवान् आदौ आत्मपरीक्षणं करोतु अनन्तरमेव एनं शुकं दूषयतु।" ऋषेः वचनं श्रुत्वा राजा स्वापराधम् अवगम्य अधोवदनः तस्मात् आश्रमात् विनिर्गतः।

© examsnet.com
Question : 132 of 150
Marks:
+1,
-0
Go to Question: